वांछित मन्त्र चुनें

ती॒व्रान् घोषा॑न् कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः। अ॒व॒क्राम॑न्तः॒ प्रप॑दैर॒मित्रा॑न् क्षि॒णन्ति॒ शत्रूँ॒१ ॥ऽरन॑पव्ययन्तः ॥४४ ॥

मन्त्र उच्चारण
पद पाठ

ती॒व्रान्। घोषा॑न्। कृ॒ण्व॒ते॒। वृष॑पाणय॒ इति॒ वृष॑ऽपाणयः। अश्वाः॑। रथे॑भिः। स॒ह। वा॒जय॑न्तः। अ॒व॒क्राम॑न्त॒ इत्य॑व॒ऽक्राम॑न्तः। प्रप॑दै॒रिति॒ प्रऽप॑दैः। अ॒मित्रा॑न्। क्षि॒णन्ति॑। शत्रू॑न्। अन॑पव्ययन्त॒ इत्य॑नपऽव्ययन्तः ॥४४ ॥

यजुर्वेद » अध्याय:29» मन्त्र:44


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे वीर पुरुष ! जो (वृषपाणयः) जिनके बलवान् बैल आदि उत्तम प्राणी हाथों के समान रक्षा करनेवाले हैं (रथेभिः) रमण के योग्य यानों के (सह) साथ (वाजयन्तः) वीर आदि को शीघ्र चलाने हारे (प्रपदैः) उत्तम पगों की चालों से (अमित्रान्) मित्रतारहित दुष्टों को (अवक्रामन्तः) धमकाते हुए (अश्वाः) शीघ्र चलाने हारे घोड़े (तीव्रान्) तीखे (घोषान्) शब्दों को (कृण्वते) करते हैं और जो (अनपव्ययन्तः) व्यर्थ खर्च न कराते हुए योद्धा (शत्रून्) वैरियों को (क्षिणन्ति) क्षीण करते हैं, उन को तुम लोग प्राण के तुल्य पालो ॥४४ ॥
भावार्थभाषाः - जो राजपुरुष हाथी, घोड़ा, बैल आदि भृत्यों और अध्यक्षों को अच्छी शिक्षा दे तथा अनेक प्रकार के यानों को बना के शत्रुओं के जीतने की अभिलाषा करते हैं तो उनका निश्चल दृढ़ विजय होता है ॥४४ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(तीव्रान्) तीक्ष्णान् (घोषान्) शब्दान् (कृण्वते) कुर्वन्ति (वृषपाणयः) रक्षका वृषा बलिष्ठा वृषभादय उत्तमाः प्राणिनः पाणिवद् येषां ते (अश्वाः) आशुगमयितारः (रथेभिः) रमणीयैर्यानैः (सह) (वाजयन्तः) वीरादीन् सद्यो गमयन्तः (अवक्रामन्तः) धर्षयन्तः (प्रपदैः) प्रकृष्टैः पारगमनैः (अमित्रान्) मित्रभावरहितान् (क्षिणन्ति) क्षयं प्रापयन्ति (शत्रून्) अरीन् (अनपव्ययन्तः) अपव्ययमप्रापयन्तः ॥४४ ॥

पदार्थान्वयभाषाः - हे वीराः ! ये वृषपाणयो रथेभिः सह वाजयन्तः प्रपदैरमित्रानवक्रामन्तोऽश्वास्तीव्रान् घोषान् कृण्वतेऽनपव्ययन्तः सन्तः शत्रून् क्षिणन्ति, तान् यूयं प्राणवत् पालयत ॥४४ ॥
भावार्थभाषाः - यदि राजपुरुषा हस्त्यश्ववृषभादीन् भृत्यानध्यक्षांश्च सुशिक्ष्यानेकविधानि यानानि निर्माय शत्रून् विजेतुमभिलषन्ति, तर्हि तेषां ध्रुवो विजयो भवति ॥४४ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जे राजे व राजपुरुष हत्ती, घोडे, बैल, नौकर व प्रमुख पुरुष यांना चांगले शिक्षण देतात, तसेच अनेक प्रकारची याने बनवितात व शत्रूंना जिंकण्याची अभिलाषा बाळगतात त्याचा निश्चितपणे विजय होतो.